ऋषिः - ब्रह्मा

देवता - गोसमूहः

छन्दः - त्रिष्टुप्

स्वरः - गोसमूह सूक्त

PreviousNext
स्वर सहित मन्त्र

आ गावो॑ अग्मन्नु॒त भ॒द्रम॑क्र॒न्त्सीद॑न्तु गो॒ष्ठे र॒णय॑न्त्व॒स्मे। प्र॒जाव॑तीः पुरु॒रूपा॑ इ॒ह स्यु॒रिन्द्रा॑य पू॒र्वीरु॒षसो॒ दुहा॑नाः ॥

स्वर सहित पद पाठ

आ । गाव॑ः । अ॒ग्म॒न् । उ॒त । भ॒द्रम् । अ॒क्र॒न् । सीद॑न्तु । गो॒ऽस्थे । र॒णय॑न्तु । अ॒स्मे इति॑ । प्र॒जाऽव॑तीः । पु॒रु॒ऽरूषा॑ः । इ॒ह । स्यु॒ः । इन्द्रा॑य । पू॒र्वीः । उ॒षस॑ः । दुहा॑नाः ॥२१.१॥


स्वर रहित मन्त्र

आ गावो अग्मन्नुत भद्रमक्रन्त्सीदन्तु गोष्ठे रणयन्त्वस्मे। प्रजावतीः पुरुरूपा इह स्युरिन्द्राय पूर्वीरुषसो दुहानाः ॥


स्वर रहित पद पाठ

आ । गावः । अग्मन् । उत । भद्रम् । अक्रन् । सीदन्तु । गोऽस्थे । रणयन्तु । अस्मे इति । प्रजाऽवतीः । पुरुऽरूषाः । इह । स्युः । इन्द्राय । पूर्वीः । उषसः । दुहानाः ॥२१.१॥