ऋषिः - वेनः

देवता - आत्मा

छन्दः - उपरिष्टाज्ज्योतिस्त्रिष्टुप्

स्वरः - आत्मविद्या सूक्त

PreviousNext
स्वर सहित मन्त्र

आपो॑ व॒त्सं ज॒नय॑न्ती॒र्गर्भ॒मग्रे॒ समै॑रयन्। तस्यो॒त जाय॑मान॒स्योल्ब॑ आसीद्धिर॒ण्ययः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

स्वर सहित पद पाठ

आप॑ः । व॒त्सम् । ज॒नय॑न्तीः । गर्भ॑म् । अग्रे॑ । सम् । ऐ॒र॒य॒न् । तस्य॑ । उ॒त । जाय॑मानस्य । उल्ब॑ः । आ॒सी॒त् । हि॒र॒ण्यय॑ः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥२.८॥


स्वर रहित मन्त्र

आपो वत्सं जनयन्तीर्गर्भमग्रे समैरयन्। तस्योत जायमानस्योल्ब आसीद्धिरण्ययः कस्मै देवाय हविषा विधेम ॥


स्वर रहित पद पाठ

आपः । वत्सम् । जनयन्तीः । गर्भम् । अग्रे । सम् । ऐरयन् । तस्य । उत । जायमानस्य । उल्बः । आसीत् । हिरण्ययः । कस्मै । देवाय । हविषा । विधेम ॥२.८॥