ऋषिः - शुक्रः

देवता - अपामार्गो वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - अपामार्ग सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑पामा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः। अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ॥

स्वर सहित पद पाठ

अ॒पा॒मा॒र्गः । अप॑ । मा॒र्ष्टु॒ । क्षे॒त्रि॒यम् । श॒पथ॑ः । च॒ । यः ।अप॑ । अह॑ । या॒तु॒ऽधा॒नीः । अप॑ । सर्वा॑ः । अ॒रा॒य्य᳡ः ॥१८.७॥


स्वर रहित मन्त्र

अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः। अपाह यातुधानीरप सर्वा अराय्यः ॥


स्वर रहित पद पाठ

अपामार्गः । अप । मार्ष्टु । क्षेत्रियम् । शपथः । च । यः ।अप । अह । यातुऽधानीः । अप । सर्वाः । अराय्य᳡ः ॥१८.७॥