ऋषिः - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिपान्महाबृहती
स्वरः - सत्यानृतसमीक्षक सूक्त
तैः । त्वा॒ । सर्वै॑ः । अ॒भि । स्या॒मि॒ । पाशै॑ः । अ॒सौ॒ । आ॒मु॒ष्या॒य॒ण॒ । अ॒मु॒ष्या॒ः । पु॒त्र॒ । तान् । ऊं॒ इति॑ । ते॒ । सर्वा॑न् । अ॒नु॒ऽसंदि॑शामि ॥१६.९॥
तैः । त्वा । सर्वैः । अभि । स्यामि । पाशैः । असौ । आमुष्यायण । अमुष्याः । पुत्र । तान् । ऊं इति । ते । सर्वान् । अनुऽसंदिशामि ॥१६.९॥