ऋषिः - ब्रह्मा

देवता - वरुणः

छन्दः - त्रिपान्महाबृहती

स्वरः - सत्यानृतसमीक्षक सूक्त

PreviousNext
स्वर सहित मन्त्र

यः स॑मा॒म्यो॒ वरु॑णो॒ यो व्या॒म्यो॒ यः सं॑दे॒श्यो॒ वरु॑णो॒ यो वि॑दे॒श्यः। यो दै॒वो वरु॑णो॒ यश्च॒ मानु॑षः ॥

स्वर सहित पद पाठ

यः । स॒म्ऽआ॒भ्य᳡ः । वरु॑णः । यः । वि॒ऽआ॒भ्य᳡ः । यः । स॒म्ऽदे॒श्य᳡ः । वरु॑णः । यः । वि॒ऽदे॒श्य᳡ः । यः । दै॒वः । वरु॑णः । यः । च॒ । मानु॑षः ॥१६.८॥


स्वर रहित मन्त्र

यः समाम्यो वरुणो यो व्याम्यो यः संदेश्यो वरुणो यो विदेश्यः। यो दैवो वरुणो यश्च मानुषः ॥


स्वर रहित पद पाठ

यः । सम्ऽआभ्य᳡ः । वरुणः । यः । विऽआभ्य᳡ः । यः । सम्ऽदेश्य᳡ः । वरुणः । यः । विऽदेश्य᳡ः । यः । दैवः । वरुणः । यः । च । मानुषः ॥१६.८॥