atharvaveda/4/16/7

श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ्नृ॑चक्षः। आस्तां॑ जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ॥

श॒तेन॑ । पाशै॑: । अ॒भि । धे॒हि॒ । व॒रु॒ण॒ । ए॒न॒म् । मा । ते॒ । मो॒चि॒ । अ॒नृ॒त॒ऽवाक् । नृ॒ऽच॒क्ष॒: । आस्ता॑म् । जा॒ल्म: । उ॒दर॑म् । श्रं॒श॒यि॒त्वा । कोश॑:ऽइव । अ॒ब॒न्ध: । प॒रि॒ऽकृ॒त्यमा॑न: ॥१६.७॥

ऋषिः - ब्रह्मा

देवता - वरुणः

छन्दः - त्रिष्टुप्

स्वरः - सत्यानृतसमीक्षक सूक्त

स्वर सहित मन्त्र

श॒तेन॒ पाशै॑र॒भि धे॑हि वरुणैनं॒ मा ते॑ मोच्यनृत॒वाङ्नृ॑चक्षः। आस्तां॑ जा॒ल्म उ॒दरं॑ श्रंसयि॒त्वा कोश॑ इवाब॒न्धः प॑रिकृ॒त्यमा॑नः ॥

स्वर सहित पद पाठ

श॒तेन॑ । पाशै॑: । अ॒भि । धे॒हि॒ । व॒रु॒ण॒ । ए॒न॒म् । मा । ते॒ । मो॒चि॒ । अ॒नृ॒त॒ऽवाक् । नृ॒ऽच॒क्ष॒: । आस्ता॑म् । जा॒ल्म: । उ॒दर॑म् । श्रं॒श॒यि॒त्वा । कोश॑:ऽइव । अ॒ब॒न्ध: । प॒रि॒ऽकृ॒त्यमा॑न: ॥१६.७॥


स्वर रहित मन्त्र

शतेन पाशैरभि धेहि वरुणैनं मा ते मोच्यनृतवाङ्नृचक्षः। आस्तां जाल्म उदरं श्रंसयित्वा कोश इवाबन्धः परिकृत्यमानः ॥


स्वर रहित पद पाठ

शतेन । पाशै: । अभि । धेहि । वरुण । एनम् । मा । ते । मोचि । अनृतऽवाक् । नृऽचक्ष: । आस्ताम् । जाल्म: । उदरम् । श्रंशयित्वा । कोश:ऽइव । अबन्ध: । परिऽकृत्यमान: ॥१६.७॥