ऋषिः - ब्रह्मा
देवता - वरुणः
छन्दः - त्रिष्टुप्
स्वरः - सत्यानृतसमीक्षक सूक्त
उ॒त । इ॒यम् । भूमि॑ः । वरु॑णस्य । राज्ञ॑ः । उ॒त । अ॒सौ । द्यौः । बृ॒ह॒ती । दू॒रेऽअ॑न्ता । उ॒तो इति॑ । स॒मु॒द्रौ । वरु॑णस्य । कु॒क्षी इति॑ । उ॒त । अ॒स्मिन् । अल्पे॑ । उ॒द॒के । निऽली॑नः ॥१६.३॥
उत । इयम् । भूमिः । वरुणस्य । राज्ञः । उत । असौ । द्यौः । बृहती । दूरेऽअन्ता । उतो इति । समुद्रौ । वरुणस्य । कुक्षी इति । उत । अस्मिन् । अल्पे । उदके । निऽलीनः ॥१६.३॥