ऋषिः - अथर्वा

देवता - मरुद्गणः

छन्दः - विराड्जगती

स्वरः - वृष्टि सूक्त

PreviousNext
स्वर सहित मन्त्र

उदी॑रयत मरुतः समुद्र॒तस्त्वे॒षो अ॒र्को नभ॒ उत्पा॑तयाथ। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥

स्वर सहित पद पाठ

उत् । ई॒र॒य॒त॒ । म॒रु॒त॒ः । स॒मु॒द्र॒तः । त्वे॒षः । अ॒र्कः । नभ॑ः । उत् । पा॒त॒या॒थ॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑तः । नभ॑स्वतः । वा॒श्राः । आप॑ः । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.५॥


स्वर रहित मन्त्र

उदीरयत मरुतः समुद्रतस्त्वेषो अर्को नभ उत्पातयाथ। महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥


स्वर रहित पद पाठ

उत् । ईरयत । मरुतः । समुद्रतः । त्वेषः । अर्कः । नभः । उत् । पातयाथ । महाऽऋषभस्य । नदतः । नभस्वतः । वाश्राः । आपः । पृथिवीम् । तर्पयन्तु ॥१५.५॥