ऋषिः - अथर्वा

देवता - वीरुधः

छन्दः - त्रिष्टुप्

स्वरः - वृष्टि सूक्त

PreviousNext
स्वर सहित मन्त्र

समी॑क्षयस्व॒ गाय॑तो॒ नभां॑स्य॒पां वेगा॑सः॒ पृथ॒गुद्वि॑जन्ताम्। व॒र्षस्य॒ सर्गा॑ महयन्तु॒ भूमिं॒ पृथ॑ग्जायन्तां वी॒रुधो॑ वि॒श्वरू॑पाः ॥

स्वर सहित पद पाठ

सम् । ई॒क्ष॒य॒स्व॒ । गाय॑तः । नभां॑सि । अ॒पाम् । वेगा॑सः । पृथ॑क् । उत् । वि॒ज॒न्ता॒म् । व॒र्षस्य॑ । सर्गा॑ः । म॒ह॒य॒न्तु॒ । भूमि॑म् । पृथ॑क् । जा॒य॒न्ता॒म् । वी॒रुध॑ः । वि॒श्वऽरू॑पाः ॥१५.३॥


स्वर रहित मन्त्र

समीक्षयस्व गायतो नभांस्यपां वेगासः पृथगुद्विजन्ताम्। वर्षस्य सर्गा महयन्तु भूमिं पृथग्जायन्तां वीरुधो विश्वरूपाः ॥


स्वर रहित पद पाठ

सम् । ईक्षयस्व । गायतः । नभांसि । अपाम् । वेगासः । पृथक् । उत् । विजन्ताम् । वर्षस्य । सर्गाः । महयन्तु । भूमिम् । पृथक् । जायन्ताम् । वीरुधः । विश्वऽरूपाः ॥१५.३॥