ऋषिः - अथर्वा

देवता - मण्डूकसमूहः, पितरगणः

छन्दः - अनुष्टुप्

स्वरः - वृष्टि सूक्त

PreviousNext
स्वर सहित मन्त्र

सं॑वत्स॒रं श॑शया॒ना ब्रा॑ह्म॒णा व्र॑तचा॒रिणः॑। वाचं॑ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका॑ अवादिषुः ॥

स्वर सहित पद पाठ

स॒म्ऽव॒त्स॒रम् । श॒श॒या॒नाः । ब्रा॒ह्म॒णाः । व्र॒त॒ऽचा॒रिण॑ः । वाच॑म् । प॒र्जन्य॑ऽजिन्विताम् । प्र । म॒ण्डूका॑ः । अ॒वा॒दि॒षु॒ः ॥१५.१३॥


स्वर रहित मन्त्र

संवत्सरं शशयाना ब्राह्मणा व्रतचारिणः। वाचं पर्जन्यजिन्वितां प्र मण्डूका अवादिषुः ॥


स्वर रहित पद पाठ

सम्ऽवत्सरम् । शशयानाः । ब्राह्मणाः । व्रतऽचारिणः । वाचम् । पर्जन्यऽजिन्विताम् । प्र । मण्डूकाः । अवादिषुः ॥१५.१३॥