ऋषिः - अथर्वा

देवता - अग्निः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - वृष्टि सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒पाम॒ग्निस्त॒नूभिः॑ संविदा॒नो य ओष॑धीनामधि॒पा ब॒भूव॑। स नो॑ व॒र्षं व॑नुतां जा॒तवे॑दाः प्रा॒णं प्र॒जाभ्यो॑ अ॒मृतं॑ दि॒वस्परि॑ ॥

स्वर सहित पद पाठ

अ॒पाम् । अ॒ग्निः । त॒नूभि॑ः । स॒म्ऽवि॒दा॒नः । यः । ओष॑धीनाम् । अ॒धि॒ऽपा । ब॒भूव॑ । सः । न॒ः । व॒र्षम् । व॒नु॒ता॒म् । जा॒तऽवे॑दाः । प्रा॒णम् । प्र॒ऽजाभ्य॑ः । अ॒मृत॑म् । दि॒वः । परि॑॥१५.१०॥


स्वर रहित मन्त्र

अपामग्निस्तनूभिः संविदानो य ओषधीनामधिपा बभूव। स नो वर्षं वनुतां जातवेदाः प्राणं प्रजाभ्यो अमृतं दिवस्परि ॥


स्वर रहित पद पाठ

अपाम् । अग्निः । तनूभिः । सम्ऽविदानः । यः । ओषधीनाम् । अधिऽपा । बभूव । सः । नः । वर्षम् । वनुताम् । जातऽवेदाः । प्राणम् । प्रऽजाभ्यः । अमृतम् । दिवः । परि॥१५.१०॥