ऋषिः - अथर्वा
देवता - दिशः
छन्दः - विराड्जगती
स्वरः - वृष्टि सूक्त
स॒म्ऽउत्प॑तन्तु । प्र॒ऽदिश॑ः । नभ॑स्वतीः । सम् । अ॒भ्राणि॑ । वात॑ऽजूतानि । य॒न्तु॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑तः । नभ॑स्वतः । वा॒श्राः । आप॑ः । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.१॥
सम्ऽउत्पतन्तु । प्रऽदिशः । नभस्वतीः । सम् । अभ्राणि । वातऽजूतानि । यन्तु । महाऽऋषभस्य । नदतः । नभस्वतः । वाश्राः । आपः । पृथिवीम् । तर्पयन्तु ॥१५.१॥