atharvaveda/4/15/1

स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥

स॒म्ऽउत्प॑तन्तु । प्र॒ऽदिश॑: । नभ॑स्वती: । सम् । अ॒भ्राणि॑ । वात॑ऽजूतानि । य॒न्तु॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.१॥

ऋषिः - अथर्वा

देवता - दिशः

छन्दः - विराड्जगती

स्वरः - वृष्टि सूक्त

स्वर सहित मन्त्र

स॒मुत्प॑तन्तु प्र॒दिशो॒ नभ॑स्वतीः॒ सम॒भ्राणि॒ वात॑जूतानि यन्तु। म॑हऋष॒भस्य॒ नद॑तो॒ नभ॑स्वतो वा॒श्रा आपः॑ पृथि॒वीं त॑र्पयन्तु ॥

स्वर सहित पद पाठ

स॒म्ऽउत्प॑तन्तु । प्र॒ऽदिश॑: । नभ॑स्वती: । सम् । अ॒भ्राणि॑ । वात॑ऽजूतानि । य॒न्तु॒ । म॒हा॒ऽऋ॒ष॒भस्य॑ । नद॑त: । नभ॑स्वत: । वा॒श्रा: । आप॑: । पृ॒थि॒वीम् । त॒र्प॒य॒न्तु॒ ॥१५.१॥


स्वर रहित मन्त्र

समुत्पतन्तु प्रदिशो नभस्वतीः समभ्राणि वातजूतानि यन्तु। महऋषभस्य नदतो नभस्वतो वाश्रा आपः पृथिवीं तर्पयन्तु ॥


स्वर रहित पद पाठ

सम्ऽउत्पतन्तु । प्रऽदिश: । नभस्वती: । सम् । अभ्राणि । वातऽजूतानि । यन्तु । महाऽऋषभस्य । नदत: । नभस्वत: । वाश्रा: । आप: । पृथिवीम् । तर्पयन्तु ॥१५.१॥