ऋषिः - भृगुः
देवता - आज्यम्, अग्निः
छन्दः - जगती
स्वरः - स्वर्ज्योति प्राप्ति सूक्त
शृ॒तम् । अ॒जम् । शृ॒तया॑ । प्र । ऊ॒र्णु॒हि॒ । त्व॒चा । सर्वै॑ः । अङ्गै॑ः । सम्ऽभृ॑तम् । वि॒श्वऽरू॑पम् । सः । उत् । ति॒ष्ठ॒ । इ॒तः । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् । प॒त्ऽभिः । च॒तुःऽभि॑ः । प्रति॑ । ति॒ष्ठ॒ । दि॒क्षु॒ ॥१४.९॥
शृतम् । अजम् । शृतया । प्र । ऊर्णुहि । त्वचा । सर्वैः । अङ्गैः । सम्ऽभृतम् । विश्वऽरूपम् । सः । उत् । तिष्ठ । इतः । अभि । नाकम् । उत्ऽतमम् । पत्ऽभिः । चतुःऽभिः । प्रति । तिष्ठ । दिक्षु ॥१४.९॥