atharvaveda/4/14/3

पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥

पृ॒ष्ठात्‌ । पृ॒थि॒व्या: । अ॒हम् । अ॒न्तरि॑क्षम् । आ । अ॒रु॒ह॒म् । अ॒न्तरि॑क्षात् । दिव॑म् । आ । अ॒रु॒ह॒म् । दि॒व: । नाक॑स्य । पृ॒ष्ठात् । स्व᳡: । ज्योति॑: । अ॒गा॒म् । अ॒हम् ॥१३.३॥

ऋषिः - भृगुः

देवता - आज्यम्, अग्निः

छन्दः - प्रस्तारपङ्क्तिः

स्वरः - स्वर्ज्योति प्राप्ति सूक्त

स्वर सहित मन्त्र

पृ॒ष्ठात्पृ॑थि॒व्या अ॒हम॒न्तरि॑क्ष॒मारु॑हम॒न्तरि॑क्षा॒द्दिव॒मारु॑हम्। दि॒वो नाक॑स्य पृ॒ष्ठात्स्व॑१र्ज्योति॑रगाम॒हम् ॥

स्वर सहित पद पाठ

पृ॒ष्ठात्‌ । पृ॒थि॒व्या: । अ॒हम् । अ॒न्तरि॑क्षम् । आ । अ॒रु॒ह॒म् । अ॒न्तरि॑क्षात् । दिव॑म् । आ । अ॒रु॒ह॒म् । दि॒व: । नाक॑स्य । पृ॒ष्ठात् । स्व᳡: । ज्योति॑: । अ॒गा॒म् । अ॒हम् ॥१३.३॥


स्वर रहित मन्त्र

पृष्ठात्पृथिव्या अहमन्तरिक्षमारुहमन्तरिक्षाद्दिवमारुहम्। दिवो नाकस्य पृष्ठात्स्व१र्ज्योतिरगामहम् ॥


स्वर रहित पद पाठ

पृष्ठात्‌ । पृथिव्या: । अहम् । अन्तरिक्षम् । आ । अरुहम् । अन्तरिक्षात् । दिवम् । आ । अरुहम् । दिव: । नाकस्य । पृष्ठात् । स्व᳡: । ज्योति: । अगाम् । अहम् ॥१३.३॥