ऋषिः - भृगुः

देवता - आज्यम्, अग्निः

छन्दः - अनुष्टुप्

स्वरः - स्वर्ज्योति प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

क्रम॑ध्वम॒ग्निना॒ नाक॒मुख्या॒न्हस्ते॑षु॒ बिभ्र॑तः। दि॒वस्पृ॒ष्ठं स्व॑र्ग॒त्वा मि॒श्रा दे॒वेभि॑राध्वम् ॥

स्वर सहित पद पाठ

क्रम॑ध्वम् । अ॒ग्निना॑ । नाक॑म् । उख्या॑न् । हस्ते॑षु । बिभ्र॑तः । दि॒वः । पृ॒ष्ठम् । स्व᳡ः । ग॒त्वा । मि॒श्राः । दे॒वेभि॑ः । आ॒ध्व॒म् ॥१४.२॥


स्वर रहित मन्त्र

क्रमध्वमग्निना नाकमुख्यान्हस्तेषु बिभ्रतः। दिवस्पृष्ठं स्वर्गत्वा मिश्रा देवेभिराध्वम् ॥


स्वर रहित पद पाठ

क्रमध्वम् । अग्निना । नाकम् । उख्यान् । हस्तेषु । बिभ्रतः । दिवः । पृष्ठम् । स्व᳡ः । गत्वा । मिश्राः । देवेभिः । आध्वम् ॥१४.२॥