ऋषिः - भृगुः

देवता - आज्यम्, अग्निः

छन्दः - त्रिष्टुप्

स्वरः - स्वर्ज्योति प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॒जो ह्यग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑। तेन॑ दे॒वा दे॒वता॒मग्र॑ आय॒न्तेन॒ रोहा॑न्रुरुहु॒र्मेध्या॑सः ॥

स्वर सहित पद पाठ

अ॒जः । हि । अ॒ग्नेः । अज॑निष्ट । शोका॑त् । सः । अ॒प॒श्य॒त् । ज॒नि॒तार॑म् । अग्ने॑ । तेन॑ । दे॒वाः । दे॒वता॑म् । अग्रे॑ । आ॒य॒न् । तेन॑ । रोहा॑न् । रु॒रु॒हु॒ः । मेध्या॑सः ॥१४.१॥


स्वर रहित मन्त्र

अजो ह्यग्नेरजनिष्ट शोकात्सो अपश्यज्जनितारमग्रे। तेन देवा देवतामग्र आयन्तेन रोहान्रुरुहुर्मेध्यासः ॥


स्वर रहित पद पाठ

अजः । हि । अग्नेः । अजनिष्ट । शोकात् । सः । अपश्यत् । जनितारम् । अग्ने । तेन । देवाः । देवताम् । अग्रे । आयन् । तेन । रोहान् । रुरुहुः । मेध्यासः ॥१४.१॥