atharvaveda/4/12/2

यत्ते॑ रि॒ष्टं यत्ते॑ द्यु॒त्तमस्ति॒ पेष्ट्रं॑ त आ॒त्मनि॑। धा॒ता तद्भ॒द्रया॒ पुनः॒ सं द॑ध॒त्परु॑षा॒ परुः॑ ॥

यत् । ते॒ । रि॒ष्टम् । यत् । ते॒ । द्यु॒त्तम् । अस्ति॑ । पेष्ट्र॑म् । ते॒ । आ॒त्मनि॑ । धा॒ता । तत् । भ॒द्रया॑ । पुन॑: । सम् । द॒ध॒त् । परु॑षा । परु॑: ॥१२.२॥

ऋषिः - ऋभुः

देवता - वनस्पतिः

छन्दः - अनुष्टुप्

स्वरः - रोहिणी वनस्पति सूक्त

स्वर सहित मन्त्र

यत्ते॑ रि॒ष्टं यत्ते॑ द्यु॒त्तमस्ति॒ पेष्ट्रं॑ त आ॒त्मनि॑। धा॒ता तद्भ॒द्रया॒ पुनः॒ सं द॑ध॒त्परु॑षा॒ परुः॑ ॥

स्वर सहित पद पाठ

यत् । ते॒ । रि॒ष्टम् । यत् । ते॒ । द्यु॒त्तम् । अस्ति॑ । पेष्ट्र॑म् । ते॒ । आ॒त्मनि॑ । धा॒ता । तत् । भ॒द्रया॑ । पुन॑: । सम् । द॒ध॒त् । परु॑षा । परु॑: ॥१२.२॥


स्वर रहित मन्त्र

यत्ते रिष्टं यत्ते द्युत्तमस्ति पेष्ट्रं त आत्मनि। धाता तद्भद्रया पुनः सं दधत्परुषा परुः ॥


स्वर रहित पद पाठ

यत् । ते । रिष्टम् । यत् । ते । द्युत्तम् । अस्ति । पेष्ट्रम् । ते । आत्मनि । धाता । तत् । भद्रया । पुन: । सम् । दधत् । परुषा । परु: ॥१२.२॥