ऋषिः - भृग्वङ्गिराः

देवता - इन्द्रः, अनड्वान्

छन्दः - त्रिष्टुप्

स्वरः - अनड्वान सूक्त

PreviousNext
स्वर सहित मन्त्र

येन॑ दे॒वाः स्व॑रारुरु॒हुर्हि॒त्वा शरी॑रम॒मृत॑स्य॒ नाभि॑म्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं घ॒र्मस्य॑ व्र॒तेन॒ तप॑सा यश॒स्यवः॑ ॥

स्वर सहित पद पाठ

येन॑ । दे॒वाः । स्व᳡ः । आ॒ऽरु॒रु॒हुः । हि॒त्वा । शरी॑रम् । अ॒मृत॑स्य । नाभि॑म् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । घ॒र्मस्य॑ । व्र॒तेन॑ । तप॑सा । य॒श॒स्यव॑ः ॥११.६॥


स्वर रहित मन्त्र

येन देवाः स्वरारुरुहुर्हित्वा शरीरममृतस्य नाभिम्। तेन गेष्म सुकृतस्य लोकं घर्मस्य व्रतेन तपसा यशस्यवः ॥


स्वर रहित पद पाठ

येन । देवाः । स्व᳡ः । आऽरुरुहुः । हित्वा । शरीरम् । अमृतस्य । नाभिम् । तेन । गेष्म । सुऽकृतस्य । लोकम् । घर्मस्य । व्रतेन । तपसा । यशस्यवः ॥११.६॥