ऋषिः - भृग्वङ्गिराः

देवता - इन्द्रः, अनड्वान्

छन्दः - त्रिष्टुप्

स्वरः - अनड्वान सूक्त

PreviousNext
स्वर सहित मन्त्र

यस्य॑ नेशे य॒ज्ञप॑ति॒र्न य॒ज्ञो नास्य॑ दातेशे॒ न प्र॑तिग्रही॒ता। यो वि॑श्व॒जिद्वि॑श्व॒भृद्वि॒श्वक॑र्मा घ॒र्मं नो॑ ब्रूत यत॒मश्चतु॑ष्पात् ॥

स्वर सहित पद पाठ

यस्य॑ । न । ईशे॑ । य॒ज्ञऽप॑तिः । न । य॒ज्ञः । न । अ॒स्य॒ । दा॒ता । ईशे॑ । न । प्र॒ति॒ऽग्र॒ही॒ता । यः । वि॒श्व॒ऽजित् । वि॒श्व॒ऽभृत् । वि॒श्वऽक॑र्मा । घ॒र्मम् । न॒ः । ब्रू॒त॒ । य॒त॒मः । चतु॑ःऽपात् ॥११.५॥


स्वर रहित मन्त्र

यस्य नेशे यज्ञपतिर्न यज्ञो नास्य दातेशे न प्रतिग्रहीता। यो विश्वजिद्विश्वभृद्विश्वकर्मा घर्मं नो ब्रूत यतमश्चतुष्पात् ॥


स्वर रहित पद पाठ

यस्य । न । ईशे । यज्ञऽपतिः । न । यज्ञः । न । अस्य । दाता । ईशे । न । प्रतिऽग्रहीता । यः । विश्वऽजित् । विश्वऽभृत् । विश्वऽकर्मा । घर्मम् । नः । ब्रूत । यतमः । चतुःऽपात् ॥११.५॥