ऋषिः - भृग्वङ्गिराः

देवता - इन्द्रः, अनड्वान्

छन्दः - त्रिष्टुप्

स्वरः - अनड्वान सूक्त

PreviousNext
स्वर सहित मन्त्र

इन्द्रो॑ जा॒तो म॑नु॒ष्ये॑ष्व॒न्तर्घ॒र्मस्त॒प्तश्च॑रति॒ शोशु॑चानः। सु॑प्र॒जाः सन्त्स उ॑दा॒रे न स॑र्ष॒द्यो नाश्नी॒याद॑न॒डुहो॑ विजा॒नन् ॥

स्वर सहित पद पाठ

इन्द्र॑ः । जा॒तः । म॒नु॒ष्ये᳡षु । अ॒न्तः । घ॒र्मः । त॒प्तः । च॒र॒ति॒ । शोशु॑चानः । सु॒ऽप्र॒जाः । सन् । सः । उ॒त्ऽआ॒रे । न । स॒र्ष॒त् । यः । न । अ॒श्नी॒यात् । अ॒न॒डुह॑ः । वि॒ऽजा॒नन् ॥११.३॥


स्वर रहित मन्त्र

इन्द्रो जातो मनुष्येष्वन्तर्घर्मस्तप्तश्चरति शोशुचानः। सुप्रजाः सन्त्स उदारे न सर्षद्यो नाश्नीयादनडुहो विजानन् ॥


स्वर रहित पद पाठ

इन्द्रः । जातः । मनुष्ये᳡षु । अन्तः । घर्मः । तप्तः । चरति । शोशुचानः । सुऽप्रजाः । सन् । सः । उत्ऽआरे । न । सर्षत् । यः । न । अश्नीयात् । अनडुहः । विऽजानन् ॥११.३॥