ऋषिः - भृग्वङ्गिराः

देवता - इन्द्रः, अनड्वान्

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - अनड्वान सूक्त

PreviousNext
स्वर सहित मन्त्र

अ॑न॒ड्वानिन्द्रः॒ स प॒शुभ्यो॒ वि च॑ष्टे त्र॒यां छ॒क्रो वि मि॑मीते॒ अध्व॑नः। भू॒तं भ॑वि॒ष्यद्भुव॑ना॒ दुहा॑नः॒ सर्वा॑ दे॒वानां॑ चरति व्र॒तानि॑ ॥

स्वर सहित पद पाठ

अ॒न॒ड्वान् । इन्द्र॑ः । सः । प॒शुऽभ्य॑ः । वि । च॒ष्टे॒ । त्र॒यान् । श॒क्रः । वि । मि॒मी॒ते॒ । अध्व॑नः । भू॒तम् । भ॒वि॒ष्यत् । भुव॑ना । दुहा॑नः । सर्वा॑ । दे॒वाना॑म् । च॒र॒ति॒ । व्र॒तानि॑ ॥११.२॥


स्वर रहित मन्त्र

अनड्वानिन्द्रः स पशुभ्यो वि चष्टे त्रयां छक्रो वि मिमीते अध्वनः। भूतं भविष्यद्भुवना दुहानः सर्वा देवानां चरति व्रतानि ॥


स्वर रहित पद पाठ

अनड्वान् । इन्द्रः । सः । पशुऽभ्यः । वि । चष्टे । त्रयान् । शक्रः । वि । मिमीते । अध्वनः । भूतम् । भविष्यत् । भुवना । दुहानः । सर्वा । देवानाम् । चरति । व्रतानि ॥११.२॥