atharvaveda/4/1/5

स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥

स: । बु॒ध्न्यात् । आ॒ष्ट्र॒ । ज॒नुष॑: । अ॒भि । अग्र॑म् । बृह॒स्पति॑: । दे॒वता॑ । तस्य॑ । स॒म्ऽराट् । अह॑: । यत् । शु॒क्रम् । ज्योति॑ष: । जनि॑ष्ट । अथ॑ । द्यु॒ऽमन्त॑: । वि । व॒स॒न्तु॒ । विप्रा॑: ॥१.५॥

ऋषिः - वेनः

देवता - बृहस्पतिः, आदित्यः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - ब्रह्मविद्या सूक्त

स्वर सहित मन्त्र

स बु॒ध्न्यादा॑ष्ट्र ज॒नुषो॒ऽभ्यग्रं॒ बृह॒स्पति॑र्दे॒वता॒ तस्य॑ स॒म्राट्। अह॒र्यच्छु॒क्रं ज्योति॑षो॒ जनि॒ष्टाथ॑ द्यु॒मन्तो॒ वि व॑सन्तु॒ विप्राः॑ ॥

स्वर सहित पद पाठ

स: । बु॒ध्न्यात् । आ॒ष्ट्र॒ । ज॒नुष॑: । अ॒भि । अग्र॑म् । बृह॒स्पति॑: । दे॒वता॑ । तस्य॑ । स॒म्ऽराट् । अह॑: । यत् । शु॒क्रम् । ज्योति॑ष: । जनि॑ष्ट । अथ॑ । द्यु॒ऽमन्त॑: । वि । व॒स॒न्तु॒ । विप्रा॑: ॥१.५॥


स्वर रहित मन्त्र

स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥


स्वर रहित पद पाठ

स: । बुध्न्यात् । आष्ट्र । जनुष: । अभि । अग्रम् । बृहस्पति: । देवता । तस्य । सम्ऽराट् । अह: । यत् । शुक्रम् । ज्योतिष: । जनिष्ट । अथ । द्युऽमन्त: । वि । वसन्तु । विप्रा: ॥१.५॥