ऋषिः - वेनः

देवता - बृहस्पतिः, आदित्यः

छन्दः - त्रिष्टुप्

स्वरः - ब्रह्मविद्या सूक्त

PreviousNext
स्वर सहित मन्त्र

प्र यो ज॒ज्ञे वि॒द्वान॑स्य॒ बन्धु॒र्विश्वा॑ दे॒वानां॒ जनि॑मा विवक्ति। ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मध्या॑न्नी॒चैरु॒च्चैः स्व॒धा अ॒भि प्र त॑स्थौ ॥

स्वर सहित पद पाठ

प्र । यः । ज॒ज्ञे । वि॒द्वान् । अ॒स्य॒ । बन्धु॑ः । विश्वा॑ । दे॒वाना॑म् । जनि॑म । वि॒व॒क्ति॒ । ब्रह्म॑ । ब्रह्म॑णः । उत् । ज॒भा॒र॒ । मध्या॑त् । नी॒चैः । उ॒च्चैः ।स्व॒धा । अ॒भि । प्र । त॒स्थौ॒ ॥१.३॥


स्वर रहित मन्त्र

प्र यो जज्ञे विद्वानस्य बन्धुर्विश्वा देवानां जनिमा विवक्ति। ब्रह्म ब्रह्मण उज्जभार मध्यान्नीचैरुच्चैः स्वधा अभि प्र तस्थौ ॥


स्वर रहित पद पाठ

प्र । यः । जज्ञे । विद्वान् । अस्य । बन्धुः । विश्वा । देवानाम् । जनिम । विवक्ति । ब्रह्म । ब्रह्मणः । उत् । जभार । मध्यात् । नीचैः । उच्चैः ।स्वधा । अभि । प्र । तस्थौ ॥१.३॥