atharvaveda/4/1/2

इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः। तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥

इ॒यम् । पित्र्या॑ । राष्ट्री॑ । ए॒तु॒ । अग्रे॑ । प्र॒थ॒माय॑ । ज॒नुषे॑ । भु॒व॒ने॒ऽस्था: । तस्मै॑ । ए॒तम् । सु॒ऽरुच॑म् । ह्वा॒रम् । अ॒ह्य॒म् । घ॒र्मम् । श्री॒ण॒न्तु॒ । प्र॒थ॒माय॑ । धा॒स्यवे॑ ॥१.२॥

ऋषिः - वेनः

देवता - बृहस्पतिः, आदित्यः

छन्दः - भुरिक्त्रिष्टुप्

स्वरः - ब्रह्मविद्या सूक्त

स्वर सहित मन्त्र

इ॒यं पित्र्या॒ राष्ट्र्ये॒त्वग्रे॑ प्रथ॒माय॑ ज॒नुषे॑ भुवने॒ष्ठाः। तस्मा॑ ए॒तं सु॒रुचं॑ ह्वा॒रम॑ह्यं घ॒र्मं श्री॑णन्तु प्रथ॒माय॑ धा॒स्यवे॑ ॥

स्वर सहित पद पाठ

इ॒यम् । पित्र्या॑ । राष्ट्री॑ । ए॒तु॒ । अग्रे॑ । प्र॒थ॒माय॑ । ज॒नुषे॑ । भु॒व॒ने॒ऽस्था: । तस्मै॑ । ए॒तम् । सु॒ऽरुच॑म् । ह्वा॒रम् । अ॒ह्य॒म् । घ॒र्मम् । श्री॒ण॒न्तु॒ । प्र॒थ॒माय॑ । धा॒स्यवे॑ ॥१.२॥


स्वर रहित मन्त्र

इयं पित्र्या राष्ट्र्येत्वग्रे प्रथमाय जनुषे भुवनेष्ठाः। तस्मा एतं सुरुचं ह्वारमह्यं घर्मं श्रीणन्तु प्रथमाय धास्यवे ॥


स्वर रहित पद पाठ

इयम् । पित्र्या । राष्ट्री । एतु । अग्रे । प्रथमाय । जनुषे । भुवनेऽस्था: । तस्मै । एतम् । सुऽरुचम् । ह्वारम् । अह्यम् । घर्मम् । श्रीणन्तु । प्रथमाय । धास्यवे ॥१.२॥