ऋषिः - भृग्वङ्गिराः

देवता - आपः

छन्दः - अनुष्टुप्

स्वरः - यक्ष्मनाशन सूक्त

PreviousNext
स्वर सहित मन्त्र

आप॒ इद्वा उ॑ भेष॒जीरापो॑ अमीव॒चात॑नीः। आपो॒ विश्व॑स्य भेष॒जीस्तास्त्वा॑ मुञ्चन्तु क्षेत्रि॒यात् ॥

स्वर सहित पद पाठ

आप॑ः । इत् । वै । ऊं॒ इति॑ । भे॒ष॒जीः । आप॑ः । अ॒मी॒व॒ऽचात॑नीः । आप॑ः । विश्व॑स्य । भे॒ष॒जीः । ताः । त्वा॒ । मु॒ञ्च॒न्तु॒ । क्षे॒त्रि॒यात् ॥७.५॥


स्वर रहित मन्त्र

आप इद्वा उ भेषजीरापो अमीवचातनीः। आपो विश्वस्य भेषजीस्तास्त्वा मुञ्चन्तु क्षेत्रियात् ॥


स्वर रहित पद पाठ

आपः । इत् । वै । ऊं इति । भेषजीः । आपः । अमीवऽचातनीः । आपः । विश्वस्य । भेषजीः । ताः । त्वा । मुञ्चन्तु । क्षेत्रियात् ॥७.५॥