ऋषिः - अथर्वा

देवता - इन्द्रः

छन्दः - त्रिष्टुप्

स्वरः - राजासंवरण सूक्त

PreviousNext
स्वर सहित मन्त्र

त्वां विशो॑ वृणतां रा॒ज्या॑य॒ त्वामि॒माः प्र॒दिशः॒ पञ्च॑ दे॒वीः। वर्ष्म॑न्रा॒ष्ट्रस्य॑ क॒कुदि॑ श्रयस्व॒ ततो॑ न उ॒ग्रो वि भ॑जा॒ वसू॑नि ॥

स्वर सहित पद पाठ

त्वाम् । विश॑ः । वृ॒ण॒ता॒म् । रा॒ज्या᳡य । त्वाम् । इ॒माः । प्र॒ऽदिश॑ः । पञ्च॑ । दे॒वीः । वर्ष्म॑न् । रा॒ष्ट्रस्य॑ । क॒कुदि॑ । श्र॒य॒स्व॒ । तत॑ः । न॒ः । उ॒ग्रः । वि । भ॒ज॒ । वसू॑नि ॥४.२॥


स्वर रहित मन्त्र

त्वां विशो वृणतां राज्याय त्वामिमाः प्रदिशः पञ्च देवीः। वर्ष्मन्राष्ट्रस्य ककुदि श्रयस्व ततो न उग्रो वि भजा वसूनि ॥


स्वर रहित पद पाठ

त्वाम् । विशः । वृणताम् । राज्या᳡य । त्वाम् । इमाः । प्रऽदिशः । पञ्च । देवीः । वर्ष्मन् । राष्ट्रस्य । ककुदि । श्रयस्व । ततः । नः । उग्रः । वि । भज । वसूनि ॥४.२॥