ऋषिः - अथर्वा
देवता - इन्द्रः
छन्दः - जगती
स्वरः - राजासंवरण सूक्त
आ । त्वा॒ । ग॒न् । रा॒ष्ट्रम् । स॒ह । वर्च॑सा । उत् । इ॒हि॒ । प्राङ् । वि॒शाम् । पति॑ः । ए॒क॒ऽराट् । त्वम् । वि । रा॒ज॒ ।सर्वा॑ः । त्वा॒ । रा॒ज॒न् । प्र॒ऽदिश॑ः । ह्व॒य॒न्तु॒ । उ॒प॒ऽसद्य॑ः । न॒म॒स्य᳡ः । भ॒व॒ । इ॒ह ॥४.१॥
आ । त्वा । गन् । राष्ट्रम् । सह । वर्चसा । उत् । इहि । प्राङ् । विशाम् । पतिः । एकऽराट् । त्वम् । वि । राज ।सर्वाः । त्वा । राजन् । प्रऽदिशः । ह्वयन्तु । उपऽसद्यः । नमस्य᳡ः । भव । इह ॥४.१॥