ऋषिः - अथर्वा

देवता - चन्द्रमाः, सांमनस्यम्

छन्दः - प्रस्तारपङ्क्तिः

स्वरः - सांमनस्य सूक्त

PreviousNext
स्वर सहित मन्त्र

स॑मा॒नी प्र॒पा स॒ह वो॑ऽन्नभा॒गः स॑मा॒ने योक्त्रे॑ स॒ह वो॑ युनज्मि। स॒म्यञ्चो॒ऽग्निं स॑पर्यता॒रा नाभि॑मिवा॒भितः॑ ॥

स्वर सहित पद पाठ

स॒मा॒नी । प्र॒ऽपा । स॒ह । व॒ः । अ॒न्न॒ऽभा॒गः । स॒मा॒ने । योक्त्रे॑ । स॒ह । व॒ः । यु॒न॒ज्मि॒ । स॒म्यञ्च॑ः । अ॒ग्निम् । स॒प॒र्य॒त॒ । अ॒राः । नाभि॑म्ऽइव । अ॒भित॑ः ॥३०.६॥


स्वर रहित मन्त्र

समानी प्रपा सह वोऽन्नभागः समाने योक्त्रे सह वो युनज्मि। सम्यञ्चोऽग्निं सपर्यतारा नाभिमिवाभितः ॥


स्वर रहित पद पाठ

समानी । प्रऽपा । सह । वः । अन्नऽभागः । समाने । योक्त्रे । सह । वः । युनज्मि । सम्यञ्चः । अग्निम् । सपर्यत । अराः । नाभिम्ऽइव । अभितः ॥३०.६॥