ऋषिः - अथर्वा

देवता - चन्द्रमाः, सांमनस्यम्

छन्दः - विराड्जगती

स्वरः - सांमनस्य सूक्त

PreviousNext
स्वर सहित मन्त्र

ज्याय॑स्वन्तश्चि॒त्तिनो॒ मा वि यौ॑ष्ट संरा॒धय॑न्तः॒ सधु॑रा॒श्चर॑न्तः। अ॒न्यो अ॒न्यस्मै॑ व॒ल्गु वद॑न्त॒ एत॑ सध्री॒चीना॑न्वः॒ संम॑नसस्कृणोमि ॥

स्वर सहित पद पाठ

ज्याय॑स्वन्तः । चि॒त्तिन॑ः । मा । वि । यौ॒ष्ट॒ । स॒म्ऽरा॒धय॑न्तः । स॑ऽधु॑राः । चर॑न्तः । अ॒न्यः । अ॒न्यस्मै॑ । व॒ल्गु । वद॑न्तः । आ । इ॒त॒ । स॒ध्री॒चीना॑न् । व॒ः । सम्ऽम॑नसः । कृ॒णो॒मि॒ ॥३०.५॥


स्वर रहित मन्त्र

ज्यायस्वन्तश्चित्तिनो मा वि यौष्ट संराधयन्तः सधुराश्चरन्तः। अन्यो अन्यस्मै वल्गु वदन्त एत सध्रीचीनान्वः संमनसस्कृणोमि ॥


स्वर रहित पद पाठ

ज्यायस्वन्तः । चित्तिनः । मा । वि । यौष्ट । सम्ऽराधयन्तः । सऽधुराः । चरन्तः । अन्यः । अन्यस्मै । वल्गु । वदन्तः । आ । इत । सध्रीचीनान् । वः । सम्ऽमनसः । कृणोमि ॥३०.५॥