ऋषिः - अथर्वा

देवता - चन्द्रमा, सांमनस्यम्

छन्दः - अनुष्टुप्

स्वरः - सांमनस्य सूक्त

PreviousNext
स्वर सहित मन्त्र

अनु॑व्रतः पि॒तुः पु॒त्रो मा॒त्रा भ॑वतु॒ संम॑नाः। जा॒या पत्ये॒ मधु॑मतीं॒ वाचं॑ वदतु शन्ति॒वाम् ॥

स्वर सहित पद पाठ

अनु॑ऽव्रतः । पि॒तुः । पु॒त्र । मा॒त्रा । भ॒व॒तु॒ । सम्ऽम॑नाः । जा॒या । पत्ये॑ । मधु॑ऽमतीम् । वाच॑म् । व॒द॒तु॒ । श॒न्ति॒ऽवाम् ॥३०.२॥


स्वर रहित मन्त्र

अनुव्रतः पितुः पुत्रो मात्रा भवतु संमनाः। जाया पत्ये मधुमतीं वाचं वदतु शन्तिवाम् ॥


स्वर रहित पद पाठ

अनुऽव्रतः । पितुः । पुत्र । मात्रा । भवतु । सम्ऽमनाः । जाया । पत्ये । मधुऽमतीम् । वाचम् । वदतु । शन्तिऽवाम् ॥३०.२॥