ऋषिः - उद्दालकः

देवता - कामः

छन्दः - त्र्यवसाना षट्पदा उपरिष्टाद्दैवी बृहती ककुम्मतीगर्भा विराड्जगती

स्वरः - अवि सूक्त

PreviousNext
स्वर सहित मन्त्र

क इ॒दं कस्मा॑ अदा॒त्कामः॒ कामा॑यादात्। कामो॑ दा॒ता कामः॑ प्रतिग्रही॒ता कामः॑ समु॒द्रमा वि॑वेश। कामे॑न त्वा॒ प्रति॑ गृह्णामि॒ कामै॒तत्ते॑ ॥

स्वर सहित पद पाठ

कः । इ॒दम् । कस्मै॑ । अ॒दा॒त् । काम॑ः । कामा॑य । अ॒दा॒त् । काम॑ः । दा॒ता । काम॑ः । प्र॒ति॒ऽग्र॒ही॒ता । काम॑ः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । कामे॑न । त्वा॒ । प्रति॑ । गृ॒ह्णा॒मि॒ । काम॑ । ए॒तत् । ते॒ ॥२९.७॥


स्वर रहित मन्त्र

क इदं कस्मा अदात्कामः कामायादात्। कामो दाता कामः प्रतिग्रहीता कामः समुद्रमा विवेश। कामेन त्वा प्रति गृह्णामि कामैतत्ते ॥


स्वर रहित पद पाठ

कः । इदम् । कस्मै । अदात् । कामः । कामाय । अदात् । कामः । दाता । कामः । प्रतिऽग्रहीता । कामः । समुद्रम् । आ । विवेश । कामेन । त्वा । प्रति । गृह्णामि । काम । एतत् । ते ॥२९.७॥