ऋषिः - उद्दालकः

देवता - शितिपाद् अविः

छन्दः - अनुष्टुप्

स्वरः - अवि सूक्त

PreviousNext
स्वर सहित मन्त्र

सर्वा॒न्कामा॑न्पूरयत्या॒भव॑न्प्र॒भव॒न्भव॑न्। आ॑कूति॒प्रोऽवि॑र्द॒त्तः शि॑ति॒पान्नोप॑ दस्यति ॥

स्वर सहित पद पाठ

सर्वा॑न् । कामा॑न् । पू॒र॒य॒ति॒ । आ॒ऽभव॑न् । प्र॒ऽभव॑न् । भव॑न् । आ॒कू॒ति॒ऽप्रः । अवि॑ः । द॒त्तः । शि॒ति॒ऽपात् । न । उप॑ । द॒स्य॒ति॒ ॥२९.२॥


स्वर रहित मन्त्र

सर्वान्कामान्पूरयत्याभवन्प्रभवन्भवन्। आकूतिप्रोऽविर्दत्तः शितिपान्नोप दस्यति ॥


स्वर रहित पद पाठ

सर्वान् । कामान् । पूरयति । आऽभवन् । प्रऽभवन् । भवन् । आकूतिऽप्रः । अविः । दत्तः । शितिऽपात् । न । उप । दस्यति ॥२९.२॥