ऋषिः - उद्दालकः
देवता - शितिपाद् अविः
छन्दः - पथ्यापङ्क्तिः
स्वरः - अवि सूक्त
यत् । राजा॑नः । वि॒ऽभज॑न्ते । इ॒ष्टा॒पू॒र्तस्य॑ । षो॒ड॒शम् । य॒मस्य॑ । अ॒मी इति॑ । स॒भा॒ऽसद॑ः । अवि॑ः । तस्मा॑त् । प्र । मु॒ञ्च॒ति॒ । द॒त्तः । शि॒ति॒ऽपात् । स्व॒धा ॥२९.१॥
यत् । राजानः । विऽभजन्ते । इष्टापूर्तस्य । षोडशम् । यमस्य । अमी इति । सभाऽसदः । अविः । तस्मात् । प्र । मुञ्चति । दत्तः । शितिऽपात् । स्वधा ॥२९.१॥