ऋषिः - अथर्वा
देवता - ऊर्ध्वा दिक्, बृहस्पतिः, श्वित्रः, वर्षम्
छन्दः - पञ्चपदा ककुम्मतीगर्भाष्टिः
स्वरः - शत्रुनिवारण सूक्त
ऊ॒र्ध्वा । दिक् । बृह॒स्पति॑ः । अधि॑ऽपतिः । श्वि॒त्रः । र॒क्षि॒ता । व॒र्षम् । इष॑वः । तेभ्य॑ः । नम॑ः । अधि॑पतिऽभ्यः । नम॑ः । र॒क्षि॒तृऽभ्य॑ः । नम॑ः । इषु॑ऽभ्यः । नम॑ः । ए॒भ्य॒ः । अ॒स्तु॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः । तम् । व॒ः । जम्भे॑ । द॒ध्मः॥२७.६॥
ऊर्ध्वा । दिक् । बृहस्पतिः । अधिऽपतिः । श्वित्रः । रक्षिता । वर्षम् । इषवः । तेभ्यः । नमः । अधिपतिऽभ्यः । नमः । रक्षितृऽभ्यः । नमः । इषुऽभ्यः । नमः । एभ्यः । अस्तु । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः । तम् । वः । जम्भे । दध्मः॥२७.६॥