ऋषिः - अथर्वा
देवता - उदीची दिक्, सोमः, स्वजः, अशनिः
छन्दः - पञ्चपदा ककुम्मतीगर्भाष्टिः
स्वरः - शत्रुनिवारण सूक्त
उदी॑ची । दिक् । सोम॑ः । अधि॑ऽपतिः । स्व॒जः । र॒क्षि॒ता । अ॒शनि॑ः । इष॑वः । तेभ्य॑ः । नम॑ः । अधि॑पतिऽभ्यः । नम॑ः । र॒क्षि॒तृऽभ्य॑ः । नम॑ः । इषु॑ऽभ्यः । नम॑ः । ए॒भ्य॒ः । अ॒स्तु॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः । तम् । व॒ः । जम्भे॑ । द॒ध्मः ॥२७.४॥
उदीची । दिक् । सोमः । अधिऽपतिः । स्वजः । रक्षिता । अशनिः । इषवः । तेभ्यः । नमः । अधिपतिऽभ्यः । नमः । रक्षितृऽभ्यः । नमः । इषुऽभ्यः । नमः । एभ्यः । अस्तु । यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः । तम् । वः । जम्भे । दध्मः ॥२७.४॥