ऋषिः - अथर्वा

देवता - दक्षिणदिक्, इन्द्रः, तिरश्चिराजी, पितरगणः

छन्दः - पञ्चपदा ककुम्मत्यष्टिः

स्वरः - शत्रुनिवारण सूक्त

PreviousNext
स्वर सहित मन्त्र

दक्षि॑णा॒ दिगिन्द्रो॑ऽधिपति॒स्तिर॑श्चिराजी रक्षि॒ता पि॒तर॒ इष॑वः। तेभ्यो॒ नमो॑ऽधिपतिभ्यो॒ नमो॑ रक्षि॒तृभ्यो॒ नम॒ इषु॑भ्यो॒ नम॑ एभ्यो अस्तु। यो॒स्मान्द्वेष्टि॒ यं व॒यं द्वि॒ष्मस्तं वो॒ जम्भे॑ दध्मः ॥

स्वर सहित पद पाठ

दक्षि॑णा । दिक् । इन्द्र॑ः । अधि॑ऽपतिः । तिर॑श्चिऽराजिः । र॒क्षि॒ता । पि॒तर॑ः । इष॑वः । तेभ्य॑ः । नम॑ः । अधि॑पतिऽभ्यः । नम॑ः । र॒क्षि॒तृऽभ्य॑ः । नम॑ः । इषु॑ऽभ्यः । नम॑ः । ए॒भ्य॒ः । अ॒स्तु॒ ।यः । अ॒स्मान् । द्वेष्टि॑ । यम् । व॒यम् । द्वि॒ष्मः । तम् । व॒ः । जम्भे॑ । द॒ध्मः ॥२७.२॥


स्वर रहित मन्त्र

दक्षिणा दिगिन्द्रोऽधिपतिस्तिरश्चिराजी रक्षिता पितर इषवः। तेभ्यो नमोऽधिपतिभ्यो नमो रक्षितृभ्यो नम इषुभ्यो नम एभ्यो अस्तु। योस्मान्द्वेष्टि यं वयं द्विष्मस्तं वो जम्भे दध्मः ॥


स्वर रहित पद पाठ

दक्षिणा । दिक् । इन्द्रः । अधिऽपतिः । तिरश्चिऽराजिः । रक्षिता । पितरः । इषवः । तेभ्यः । नमः । अधिपतिऽभ्यः । नमः । रक्षितृऽभ्यः । नमः । इषुऽभ्यः । नमः । एभ्यः । अस्तु ।यः । अस्मान् । द्वेष्टि । यम् । वयम् । द्विष्मः । तम् । वः । जम्भे । दध्मः ॥२७.२॥