ऋषिः - अथर्वा

देवता - बृहस्पतियुक्ता अवस्वन्तः

छन्दः - जगती

स्वरः - दिक्षु आत्मारक्षा सूक्त

PreviousNext
स्वर सहित मन्त्र

ये॒स्यां स्थोर्ध्वायां॑ दि॒श्यव॑स्वन्तो॒ नाम॑ दे॒वास्तेषां॑ वो॒ बृह॒स्पति॒रिष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

ये । अ॒स्याम् । स्थ । ऊ॒र्घ्वाया॑म् । दि॒शि । अव॑स्वन्तः । नाम॑ । दे॒वाः । तेषा॑म् । व॒ः । बृह॒स्पति॑ः । इष॑वः । ते । न॒ः । मृ॒ड॒त॒ । ते । न॒ः । अधि॑ । ब्रू॒त॒ । तेभ्य॑ः । व॒ः । नम॑ः । तेभ्य॑ः । व॒ः । स्वाहा॑ ॥२६.६॥


स्वर रहित मन्त्र

येस्यां स्थोर्ध्वायां दिश्यवस्वन्तो नाम देवास्तेषां वो बृहस्पतिरिषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥


स्वर रहित पद पाठ

ये । अस्याम् । स्थ । ऊर्घ्वायाम् । दिशि । अवस्वन्तः । नाम । देवाः । तेषाम् । वः । बृहस्पतिः । इषवः । ते । नः । मृडत । ते । नः । अधि । ब्रूत । तेभ्यः । वः । नमः । तेभ्यः । वः । स्वाहा ॥२६.६॥