ऋषिः - अथर्वा
देवता - उदीचीदिक् सवाताः प्रविध्यन्तः
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - दिक्षु आत्मारक्षा सूक्त
ये । अ॒स्याम् । स्थ । उदी॑च्याम् । दि॒शि । प्र॒ऽविध्य॑न्तः । नाम॑ । दे॒वाः । तेषा॑म् । व॒ः । वात॑ः । इष॑वः । ते । न॒ः । मृ॒ड॒त॒ । ते । न॒ः । अधि॑ । ब्रू॒त॒ । तेभ्य॑ः । व॒ः । नम॑ः । तेभ्य॑ः । व॒ः । स्वाहा॑ ॥२६.४॥
ये । अस्याम् । स्थ । उदीच्याम् । दिशि । प्रऽविध्यन्तः । नाम । देवाः । तेषाम् । वः । वातः । इषवः । ते । नः । मृडत । ते । नः । अधि । ब्रूत । तेभ्यः । वः । नमः । तेभ्यः । वः । स्वाहा ॥२६.४॥