ऋषिः - अथर्वा

देवता - दक्षिणदिक् सकामा अविष्यवः

छन्दः - जगती

स्वरः - दिक्षु आत्मारक्षा सूक्त

PreviousNext
स्वर सहित मन्त्र

ये॒स्यां स्थ दक्षि॑णायां दि॒श्य॑वि॒ष्यवो॒ नाम॑ दे॒वास्तेषां॑ वः॒ काम॒ इष॑वः। ते नो॑ मृडत॒ ते नोऽधि॑ ब्रूत॒ तेभ्यो॑ वो॒ नम॒स्तेभ्यो॑ वः॒ स्वाहा॑ ॥

स्वर सहित पद पाठ

ये । अ॒स्याम् । स्थ । दक्षि॑णायाम् । दि॒शि । अ॒वि॒ष्यव॑ः । नाम॑ । दे॒वाः । तेषा॑म् । व॒ः । काम॑ः । इष॑वः। ते । न॒ः । मृ॒ड॒त॒ । ते । न॒ः । अधि॑ । ब्रू॒त॒ । तेभ्य॑ः । व॒ः । नम॑ः । तेभ्य॑ः । व॒ः । स्वाहा॑ ॥२६.२॥


स्वर रहित मन्त्र

येस्यां स्थ दक्षिणायां दिश्यविष्यवो नाम देवास्तेषां वः काम इषवः। ते नो मृडत ते नोऽधि ब्रूत तेभ्यो वो नमस्तेभ्यो वः स्वाहा ॥


स्वर रहित पद पाठ

ये । अस्याम् । स्थ । दक्षिणायाम् । दिशि । अविष्यवः । नाम । देवाः । तेषाम् । वः । कामः । इषवः। ते । नः । मृडत । ते । नः । अधि । ब्रूत । तेभ्यः । वः । नमः । तेभ्यः । वः । स्वाहा ॥२६.२॥