ऋषिः - अथर्वा
देवता - रुद्रः, प्राचीदिशा साग्निः
छन्दः - त्रिष्टुप्
स्वरः - दिक्षु आत्मारक्षा सूक्त
ये । अ॒स्याम् । प्राच्या॑म् । दि॒शि । हे॒तय॑ः । नाम॑ । दे॒वाः । तेषा॑म् । व॒ः । अ॒ग्निः । इष॑वः । ते । न॒ः । मृ॒ड॒त॒ । ते । न॒ः । अधि॑ । ब्रू॒त॒ । तेभ्य॑ः । व॒ः । नम॑ः । तेभ्य॑ः । व॒ः । स्वाहा॑ ॥२६.१॥
ये । अस्याम् । प्राच्याम् । दिशि । हेतयः । नाम । देवाः । तेषाम् । वः । अग्निः । इषवः । ते । नः । मृडत । ते । नः । अधि । ब्रूत । तेभ्यः । वः । नमः । तेभ्यः । वः । स्वाहा ॥२६.१॥