ऋषिः - भृगुः

देवता - वनस्पतिः, प्रजापतिः

छन्दः - अनुष्टुप्

स्वरः - समृद्धि प्राप्ति सूक्त

PreviousNext
स्वर सहित मन्त्र

पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑। अथो॒ पय॑स्वतीना॒मा भ॑रे॒ऽहं स॑हस्र॒शः ॥

स्वर सहित पद पाठ

पय॑स्वतीः । ओष॑धयः । पय॑स्वत् । मा॒म॒कम् । वच॑ः । अथो॒ इति॑ । पय॑स्वतीनाम् । आ । भ॒रे॒ । अ॒हम् । स॒हस्र॒ऽशः ॥२४.१॥


स्वर रहित मन्त्र

पयस्वतीरोषधयः पयस्वन्मामकं वचः। अथो पयस्वतीनामा भरेऽहं सहस्रशः ॥


स्वर रहित पद पाठ

पयस्वतीः । ओषधयः । पयस्वत् । मामकम् । वचः । अथो इति । पयस्वतीनाम् । आ । भरे । अहम् । सहस्रऽशः ॥२४.१॥