ऋषिः - ब्रह्मा
देवता - चन्द्रमाः, योनिः
छन्दः - स्कन्धोग्रीवी बृहती
स्वरः - वीरप्रसूति सूक्त
यासा॑म् । द्यौः । पि॒ता । पृ॒थि॒वी । मा॒ता । स॒मु॒द्रः । मूल॑म् । वी॒रुधा॑म् । ब॒भूव॑ । ताः । त्वा॒ । पु॒त्र॒ऽविद्या॑य । दैवी॑ः । प्र । अ॒व॒न्तु॒ । ओष॑धयः ॥२३.६॥
यासाम् । द्यौः । पिता । पृथिवी । माता । समुद्रः । मूलम् । वीरुधाम् । बभूव । ताः । त्वा । पुत्रऽविद्याय । दैवीः । प्र । अवन्तु । ओषधयः ॥२३.६॥