ऋषिः - ब्रह्मा

देवता - चन्द्रमाः, योनिः

छन्दः - अनुष्टुप्

स्वरः - वीरप्रसूति सूक्त

PreviousNext
स्वर सहित मन्त्र

आ ते॒ योनिं॒ गर्भ॑ एतु॒ पुमा॒न्बाण॑ इवेषु॒धिम्। आ वी॒रोऽत्र॑ जायतां पु॒त्रस्ते॒ दश॑मास्यः ॥

स्वर सहित पद पाठ

आ । ते॒ । योनि॑म् । गर्भ॑ः । ए॒तु॒ । पुमा॑न् । बाण॑ःऽइव । इ॒षु॒ऽधिम् । आ । वी॒रः । अत्र॑ । जा॒य॒ता॒म् । पु॒त्रः । ते॒ । दश॑ऽमास्यः ॥२३.२॥


स्वर रहित मन्त्र

आ ते योनिं गर्भ एतु पुमान्बाण इवेषुधिम्। आ वीरोऽत्र जायतां पुत्रस्ते दशमास्यः ॥


स्वर रहित पद पाठ

आ । ते । योनिम् । गर्भः । एतु । पुमान् । बाणःऽइव । इषुऽधिम् । आ । वीरः । अत्र । जायताम् । पुत्रः । ते । दशऽमास्यः ॥२३.२॥