atharvaveda/3/22/4

यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः। याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑। ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥

यत् । ते॒ । वर्च॑: । जा॒त॒ऽवे॒द॒: । बृ॒हत् । भव॑ति । आऽहु॑ते: । याव॑त् । सूर्य॑स्य । वर्च॑: । आ॒सुरस्य॑ । च॒ ।‍ ह॒स्तिन॑: । ताव॑त् । मे॒ । अ॒श्विना॑ । वर्च॑: । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२२.४॥

ऋषिः - वसिष्ठः

देवता - बृहस्पतिः, विश्वेदेवाः, वर्चः

छन्दः - त्र्यवसाना षट्पदा जगती

स्वरः - वर्चः प्राप्ति सुक्त

स्वर सहित मन्त्र

यत्ते॒ वर्चो॑ जातवेदो बृ॒हद्भव॒त्याहु॑तेः। याव॒त्सूर्य॑स्य॒ वर्च॑ आसु॒रस्य॑ च ह॒स्तिनः॑। ताव॑न्मे अ॒श्विना॒ वर्च॒ आ ध॑त्तां॒ पुष्क॑रस्रजा ॥

स्वर सहित पद पाठ

यत् । ते॒ । वर्च॑: । जा॒त॒ऽवे॒द॒: । बृ॒हत् । भव॑ति । आऽहु॑ते: । याव॑त् । सूर्य॑स्य । वर्च॑: । आ॒सुरस्य॑ । च॒ ।‍ ह॒स्तिन॑: । ताव॑त् । मे॒ । अ॒श्विना॑ । वर्च॑: । आ । ध॒त्ता॒म् । पुष्क॑रऽस्रजा ॥२२.४॥


स्वर रहित मन्त्र

यत्ते वर्चो जातवेदो बृहद्भवत्याहुतेः। यावत्सूर्यस्य वर्च आसुरस्य च हस्तिनः। तावन्मे अश्विना वर्च आ धत्तां पुष्करस्रजा ॥


स्वर रहित पद पाठ

यत् । ते । वर्च: । जातऽवेद: । बृहत् । भवति । आऽहुते: । यावत् । सूर्यस्य । वर्च: । आसुरस्य । च ।‍ हस्तिन: । तावत् । मे । अश्विना । वर्च: । आ । धत्ताम् । पुष्करऽस्रजा ॥२२.४॥