ऋषिः - वसिष्ठः

देवता - पञ्च प्रदिशः

छन्दः - अनुष्टुप्

स्वरः - रयिसंवर्धन सूक्त

PreviousNext
स्वर सहित मन्त्र

दु॒ह्रां मे॒ पञ्च॑ प्र॒दिशो॑ दु॒ह्रामु॒र्वीर्य॑थाब॒लम्। प्रापे॑यं॒ सर्वा॒ आकू॑ती॒र्मन॑सा॒ हृद॑येन च ॥

स्वर सहित पद पाठ

दु॒ह्राम् । मे॒ । पञ्च॑ । प्र॒ऽदिश॑ः । दु॒ह्राम् । उ॒र्वीः । य॒था॒ऽब॒लम् । प्र । आ॒पे॒य॒म् । सर्वा॑ः । आऽकू॑तीः । मन॑सा । हृद॑येन । च॒ ॥२०.९॥


स्वर रहित मन्त्र

दुह्रां मे पञ्च प्रदिशो दुह्रामुर्वीर्यथाबलम्। प्रापेयं सर्वा आकूतीर्मनसा हृदयेन च ॥


स्वर रहित पद पाठ

दुह्राम् । मे । पञ्च । प्रऽदिशः । दुह्राम् । उर्वीः । यथाऽबलम् । प्र । आपेयम् । सर्वाः । आऽकूतीः । मनसा । हृदयेन । च ॥२०.९॥