ऋषिः - अथर्वा
देवता - अग्निः
छन्दः - त्रिष्टुप्
स्वरः - शत्रु सेनासंमोहन सूक्त
अ॒ग्निः । न॒ः । दू॒तः । प्र॒ति॒ऽएतु॑ । वि॒द्वान् । प्र॒ति॒ऽदह॑न् । अ॒भिऽश॑स्तिम् । अरा॑तिम् ।सः । चि॒त्तानि॑ । मो॒ह॒य॒तु॒ । परे॑षाम् । निःऽह॑स्तान् । च॒ । कृ॒ण॒व॒त् । जा॒तऽवे॑दाः ॥२.१॥
अग्निः । नः । दूतः । प्रतिऽएतु । विद्वान् । प्रतिऽदहन् । अभिऽशस्तिम् । अरातिम् ।सः । चित्तानि । मोहयतु । परेषाम् । निःऽहस्तान् । च । कृणवत् । जातऽवेदाः ॥२.१॥