ऋषिः - विश्वामित्रः

देवता - सीता

छन्दः - त्रिष्टुप्

स्वरः - कृषि

PreviousNext
स्वर सहित मन्त्र

सीते॒ वन्दा॑महे त्वा॒र्वाची॑ सुभगे भव। यथा॑ नः सु॒मना॒ असो॒ यथा॑ नः सुफ॒ला भुवः॑ ॥

स्वर सहित पद पाठ

सीते॑ । वन्दा॑महे । त्वा॒ । अर्वाची॑ । सु॒ऽभ॒गे॒ । भ॒व॒ । यथा॑ । न॒ः । सु॒ऽमना॑ः । अस॑ः । यथा॑ । न॒ः । सु॒ऽफ॒ला । भुव॑ः ॥१७.८॥


स्वर रहित मन्त्र

सीते वन्दामहे त्वार्वाची सुभगे भव। यथा नः सुमना असो यथा नः सुफला भुवः ॥


स्वर रहित पद पाठ

सीते । वन्दामहे । त्वा । अर्वाची । सुऽभगे । भव । यथा । नः । सुऽमनाः । असः । यथा । नः । सुऽफला । भुवः ॥१७.८॥