ऋषिः - अथर्वा

देवता - उषाः

छन्दः - त्रिष्टुप्

स्वरः - कल्याणार्थप्रार्थना

PreviousNext
स्वर सहित मन्त्र

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

स्वर सहित पद पाठ

अश्व॑ऽवतीः । गोऽम॑तीः । न॒ः । उ॒षस॑ः । वी॒रऽव॑तीः । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्राः । घृ॒तम् । दुहा॑नाः । वि॒श्वत॑ः । प्रऽपी॑ताः । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑ः । सदा॑ । न॒ः ॥१६.७॥


स्वर रहित मन्त्र

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥


स्वर रहित पद पाठ

अश्वऽवतीः । गोऽमतीः । नः । उषसः । वीरऽवतीः । सदम् । उच्छन्तु । भद्राः । घृतम् । दुहानाः । विश्वतः । प्रऽपीताः । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥१६.७॥