atharvaveda/3/16/7

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

अश्व॑ऽवती: । गोऽम॑ती: । न॒: । उ॒षस॑: । वी॒रऽव॑ती: । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्रा: । घृ॒तम् । दुहा॑ना: । वि॒श्वत॑: । प्रऽपी॑ता: । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१६.७॥

ऋषिः - अथर्वा

देवता - उषाः

छन्दः - त्रिष्टुप्

स्वरः - कल्याणार्थप्रार्थना

स्वर सहित मन्त्र

अश्वा॑वती॒र्गोम॑तीर्न उ॒षासो॑ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः। घृ॒तं दुहा॑ना वि॒श्वतः॒ प्रपी॑ता यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

स्वर सहित पद पाठ

अश्व॑ऽवती: । गोऽम॑ती: । न॒: । उ॒षस॑: । वी॒रऽव॑ती: । सद॑म् । उ॒च्छ॒न्तु॒ । भ॒द्रा: । घृ॒तम् । दुहा॑ना: । वि॒श्वत॑: । प्रऽपी॑ता: । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभि॑: । सदा॑ । न॒: ॥१६.७॥


स्वर रहित मन्त्र

अश्वावतीर्गोमतीर्न उषासो वीरवतीः सदमुच्छन्तु भद्राः। घृतं दुहाना विश्वतः प्रपीता यूयं पात स्वस्तिभिः सदा नः ॥


स्वर रहित पद पाठ

अश्वऽवती: । गोऽमती: । न: । उषस: । वीरऽवती: । सदम् । उच्छन्तु । भद्रा: । घृतम् । दुहाना: । विश्वत: । प्रऽपीता: । यूयम् । पात । स्वस्तिऽभि: । सदा । न: ॥१६.७॥