ऋषिः - अथर्वा
देवता - भगः, आदित्याः
छन्दः - त्रिष्टुप्
स्वरः - कल्याणार्थप्रार्थना
भग॑ः । ए॒व । भग॑ऽवान् । अ॒स्तु॒ । दे॒वः । तेन॑ । व॒यम् । भग॑ऽवन्तः । स्या॒म॒ । तम् । त्वा॒ । भ॒ग॒ । सर्व॑ः । इत् । जो॒ह॒वी॒मि॒ । सः । न॒ः । भ॒ग॒ । पु॒र॒ःऽए॒ता । भ॒व॒ । इ॒ह ॥१६.५॥
भगः । एव । भगऽवान् । अस्तु । देवः । तेन । वयम् । भगऽवन्तः । स्याम । तम् । त्वा । भग । सर्वः । इत् । जोहवीमि । सः । नः । भग । पुरःऽएता । भव । इह ॥१६.५॥