ऋषिः - अथर्वा
देवता - अग्निः, इन्द्रः, मित्रावरुणौ, भगः, पूषा, सोमः
छन्दः - आर्षी जगती
स्वरः - कल्याणार्थप्रार्थना
प्रा॒तः । अ॒ग्निम् । प्रा॒तः । इन्द्र॑म् । ह॒वा॒म॒हे॒ । प्रा॒तः । मि॒त्रावरु॑णा । प्रा॒तः । अ॒श्विना॑ । प्रा॒तः । भग॑म् । पू॒षण॑म् । ब्रह्म॑णः । पति॑म् । प्रा॒तः । सोम॑म् । उ॒त । रु॒द्रम् । ह॒वा॒म॒हे॒ ॥१६.१॥
प्रातः । अग्निम् । प्रातः । इन्द्रम् । हवामहे । प्रातः । मित्रावरुणा । प्रातः । अश्विना । प्रातः । भगम् । पूषणम् । ब्रह्मणः । पतिम् । प्रातः । सोमम् । उत । रुद्रम् । हवामहे ॥१६.१॥